श्रीगणेशाय नमः ॥ नारद उवाच ॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ॥
भक्ता व्यासं स्मरे नित्यं आयुःकामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ॥
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लंबोदरं पञ्चमं च षष्ठं विकटमेव च ॥
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्  ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ॥
एकादशं गणपतिं द्वादशम् तु गजाननं ॥४॥
द्वादशैतानि नामानि त्रिसंध्य यः पठेन्नरः ॥
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥
विद्यार्थी लभते विद्या धनार्थी लभते धनं ॥
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिन् ॥६॥
जपेद् गणपतिस्तोत्रं षडभिमार्सैः फ़लम् लभेत् ॥
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा यः समर्पयेत् ॥
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
इति श्रीनारदपुराणे संकटनाशनस्तोत्रं संपूर्णम् ॥